Student Blog Published on 2025-11-25 अस्ति प्रकृतिः चित्रा विचित्रा वृक्षैः फलैः पुष्पैश्च रम्यम् । नद्यः शुद्धजलैः वहन्ति मातेव सर्वं ददाति नित्यम् ।। १।। मन्दो वायुः शीतलतां ददाति भानुः प्रकाशञ्च ददाति नित्यम् । सर्वेऽत्र जीवाश्च सदा रमन्ते जीवनदात्र्यस्ति एषा प्रकृतिः ।।२।। अधुना मानवो विस्मृत्य एतद् वृक्षच्छेदमेव करोति नित्यम् । पयसि च दुष्टे मलिने तु वायौ कथं जीवेयुः मूर्खा मनुष्याः ?३।। रोपय वृक्षान् सिञ्चय वारि रोगाश्च यान्ति सुखिनो भवन्ति । सदैव मनसि इत्थं भाव्या प्रकृतेः रक्षा मम कर्तव्या ।।४।। उज्ज्वलो धूतः दशमी ‘एफ्’